Tuesday 6 January 2009

अधिकार 81-90


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय

अधिकार: ८१. प्राक्तनस्नेह:


८०१
चिरस्निग्धेन सौहार्दत् कृतं दोषं गुणं तथा ।
सोढ्‍वा तथैव स्वीकार: चिरस्नेहस्य लक्षणम् ॥
८०२
यथेच्छं मित्ररचितं स्नेहस्याङ्गं तदिष्यते ।
तस्मात् तत्कृतकार्यस्य स्वीकृतिर्महतां गुण: ॥
८०३
स्वन्त्र्यात् मित्ररचितं कार्यं नाङ्गीक्रियेत् चेत् ।
तेन साकं कृता मैत्री तदा व्यर्था भविष्यति ॥
८०४
स्ववाञ्छितं च स्वातन्त्र्यात् सुहृत् कुर्याद्यदि स्वयम् ।
अङ्गीकृत्य च तत्कार्यश्लाघनं महतां गुण: ॥
८०५
स्वातन्त्र्यमथवा ऽज्ञत्वं वक्तव्यं तत्र कारणम् ।
स्ववाञ्छितविरोधेन सुहृत् कार्यं करोति चेत् ॥
८०६
पुरा परिचितं मित्रं खेदे प्राप्तेऽपि तत्कृते ।
न कदाचिद्विमुञ्चन्ति स्नेहधर्मवशंगता: ॥
८०७
प्रेम्णा चिरात् स्नेहवद्भि: कदाचित् खेददायके ।
कार्ये कृतेऽपि सुहृदां तेषु प्रीर्तिन हीयते ॥
८०८
पूर्वमित्रकृतं दोषमुच्यमानं परैरपि ।
अश्रुण्वतो मित्रकृतो दोष: सुदिनतां व्रजेत् ॥
८०९
स्वातन्त्र्येण चिरान्मत्रीं कुर्वता केनचित् सह ।
सौहार्दं न त्यजेद्यस्तु लोकस्तं बहु मानयेत् ॥
८१०
कृतेऽपि दोषे सौहार्दत् सोढ्‍वा तं सुहृद: स्वयम् ।
य: स्याच्छ्रेष्ठगुणोपेत: श्लाघ्यते रिपुणापि स: ॥



अधिकार: ८२. निर्गुणजनमैत्री


८११
दुर्गुणा: प्रीतिसम्पन्ना इव कुर्युश्च मित्रताम् ।
त्यागो दुर्गुणमैत्र्यास्तु वर: स्यात् तस्य वर्धनात् ॥
८१२
स्वार्थाय कुर्वत: स्नेहं कार्यन्ते तद्विमुञ्चत: ।
असमथस्य सौहार्दं सर्वदा निष्प्रयोजनम् ॥
८१३
धनैकलक्ष्या गणिका: तस्करा: परवञ्चका: ।
लाभौकलक्ष्या: स्निग्धाश्च त्रयस्तुल्यगुणान्विता: ॥
८१४
पतिं भूमौ पातयित्वा धावता वाजिना समम् ।
सुहृत् साहयं न कुर्याच्चेत् ऐकान्त्यं वरमिष्यते ॥
८१५
अप्रयोजकरा नीचजनमैत्री विगर्हिता ।
तादृशस्नेहकरणात् स्नेहभावो वर: किल ॥
८१६
मूढै: साकं दृढस्नेहकरणात्, ज्ञानिभि: सह ।
विरोध: कोटिसंख्याकलाभं नूनं प्रयच्छति ॥
८१७
वहिर्हास्यपरै: साकं मैत्र्यां यज्जायते सुखम् ।
रिपुमूलसुखं तस्मात् दशकोटिगुणाधिकम् ॥
८१८
सुसाध्यकार्ये दुस्साध्यमिव य: सुहृदाचरेत् ।
तेन साकं स्थितां मैत्रीमनुत्तवैव परित्यज ॥
८१९
उक्त्वैकं वचसा कार्यमन्यत् कोयेन कुर्वता ।
मैत्री कृता तु स्वप्नेऽपि व्यसनं जनयिष्यति ॥
८२०
गेहे रहसि संस्तुत्य सभायां जनमण्डले ।
मैत्री निन्दयता साकं सर्वथा न विधीयताम् ॥



अधिकार: ८३. आन्तरस्नेहशून्यता


८२१
हार्दस्नेहविहीनस्य बाह्यस्नेहं वितन्वत: ।
मैत्री भग्ना भवेत् स्वर्णमय:खण्डगतं यथा ॥
८२२
चित्ते सौहार्दहीनस्य मित्रवन्नटतो बहि: ।
सौहार्दमङ्गनाचित्तसमं परिणतं भवेत् ॥
८२३
अधीतेष्वपि शास्त्रेषु हार्दमैत्र्या प्रवर्तनम् ।
नैव साध्यं भवेत्तेषां ये भवन्ति विरोधिन: ॥
८२४
बहिर्हास्यमुखो भूत्वा चित्ते द्रोहं चिकीर्षत: ।
वञ्चकस्य तु सौहर्दं दूरे कुरु भयान्वित: ॥
८२५
कृत्वान्यभावं मनसि स्नेहमाचरतो बहि: ।
श्रुत्वा वार्तां च कार्येषु प्रवृत्तिर्न वरा मता ॥
८२६
विरोधिनो मित्रसमं हितं वाक्यं ब्रुवन्तु वा ।
अथापि तद्वचोभङ्ग्या तत्त्वं ज्ञायेत शीघ्रत: ॥
८२७
प्राप्यापि नम्रतां चाप: स्वभावाद् दु:खदो यथा ।
विनयाढ्यं शत्रुवाक्यं तथानर्थकरं भवेत् ॥
८२८
शत्रोरञ्जलिमश्येऽपि छन्न: स्यात् कठिनायुध: ।
तथा शत्रोरश्रुपात: क्रूरायुधसमो भवेत् ॥
८२९
भूत्वा बहि: स्निग्धसमो दूषयेद् हृदयेन् य: ।
तमेव मार्गमाश्रित्य तस्य मैत्रीं विनाशय ॥
८३०
शत्रुभि: सह मैत्र्यां च प्रसक्तायां मुखे परम् ।
प्रसर्श्य मैत्रीं हार्दां तां मैत्रीं छिन्धि निरन्तरम् ॥

अधिकार: ८४. मौढ्यम्


८३१
क्षेमदायककार्यस्यपरित्यागस्तथैव च ।
अनर्थप्रदकार्यस्य स्वीकारो मौढ्यलक्षणम् ॥
८३२
नानाविधेषु मौढ्येषु मौढ्यं तच्छिखरायते ।
यच्छास्त्रनिन्दिते हेये दुराचारे तु भोग्यधी: ॥
८३३
लज्जाविहीनता प्रेमशून्यता श्रेष्ठवस्तुनि ।
नैराश्यं निर्विवेकत्वमिमे मौढ्यगुणा मता: ॥
८३४
शास्त्रण्यधीत्य तत्त्वार्थान् बुध्वा चोक्त्वा परान् प्रति ।
यस्तु नाचरते तेन समो मूढो न विद्यते ॥
८३५
यत्यापं नरकं दद्यात् भावि सप्तसु जन्मसु ।
तत्पापमखिलं म्ढ: करोत्यत्रैव जन्मनि ॥
८३६
अजानता क्रियातत्त्वं मूढेनारब्धकर्म तु ।
विघ्नितं नैति पूर्णत्वं कर्तारमपि नाशयेत् ॥
८३७
मूढस्य यदि लभ्येत् धनं तेन परे जना: ।
प्राप्नुयु: सकलं सौख्यं न लाभो बन्धुमित्रयो: ॥
८३८
मूढो धनं प्राप्नुयाच्चेत् पित्तस्य पिबत: सुराम् ।
या तून्मादकरावस्था मूढ: प्राप्नोति तां दशाम् ॥
८३९
मूढै: साकं वियोगेन दु:खं कस्यापि नोद्भवेत् ।
तस्मान्मूढेन मैत्री तु भवेदानन्दायिनी ॥
८४०
अमेध्यस्पृष्टपादस्य पर्यङ्के क्षालनं विना ।
निक्षेपतुल्यं, मूढस्य विद्वद्गोष्ठीप्रवेशनम् ॥

अधिकार: ८५. अल्पज्ञत्वम्


८४१
विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकर: ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥
८४२
अल्पज्ञ्: प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतु: पुण्यमन्तरा ॥
८४३
यावान् खेद: शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयु: खेदमल्पज्ञा: स्वीयाज्ञानबलात् स्वयम् ॥
८४४
'ज्ञानवानहमस्मी'ति यो वाज्ञानकृतो मद: ।
स एवाल्पज्ञशब्देन प्रकृते सम्प्रकीर्त्यते ॥
८४५
अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥
८४६
स्वदोषवरणे यत्नहीन: स्वल्पमतिर्नर: ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥
८४७
परोक्तगोपनीयार्थान् प्रमादादीरयन् बहि: ।
अल्पज्ञ: स्वस्य नानर्थान् स्वयमेव समानयेत् ॥
८४८
सत्कार्यं य: परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धे: प्राणा: स्यु: आन्तमामयरूपिण: ॥
८४९
अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नर: ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥
८५०
अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च य: ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥

अधिकार: ८६. भेदबुद्धि:


८५१
समेषां प्राणिवर्गाणामितरै: प्राणिभि: सह ।
दुर्गुणं मेलनाभावरूपं मेदो विवर्घयेत् ॥
८५२
अनिच्छन् सङ्गमं कश्चित् करोत्वन्यस्य चाप्रियम् ।
तस्याप्यनिष्टकरणान्निवृत्ति: श्लाघ्यते नृणाम् ॥
८५३
हृदयाद्भेदभावाख्यरोगं दु:खप्रदायकम् ।
बहिर्निष्कासयन् कश्चित् शाश्वतीं कीर्तिमश्‍नुते ॥
८५४
दु:खानामादिमं दु:खं भेदज्ञानाभिधं नर: ।
नाशयन् स्वयमाप्नोति सुखानामुत्तमं सुखम् ॥
८५५
मेदज्ञानाख्यदोषेण ये भवेयुर्न दूषिता: ।
तान् जेतुं भुवि शक्ता: स्यु: केवाऽस्मिन धरणीतले ॥
८५६
भेदबुद्धिं समालम्ब्य वर्तनं वरमित्यपि ।
तिष्ठतो जीविते सम्पत् क्षीयते नश्यति स्वयम् ॥
८५७
भेदज्ञानाख्यदुर्बुद्धिसमेता जयदायकान् ।
नीतिशास्त्रोक्ततत्त्वार्थान् ज्ञातुं न प्रभवन्ति ते ॥
८५८
भेदबुद्धिं ये त्यजन्ति तेषां भाग्यं विवर्घते ।
वशा ये भेदभावस्य ते त्वनर्थानवाप्नुयु: ॥
८५९
श्रेय:सम्प्राप्तिवेलायां न  स्मेरेद्भेदभावनाम् ।
अश्रेय:प्राप्तिवेलायां भेदबुद्धिं ध्रुवं त्यजेत् ॥
८६०
भेदज्ञानेन चैकस्य बह्वनर्था भवन्ति हि ।
सौहार्दान्नितिरूपाख्यभाग्यं जायेत कस्यचित् ॥



अधिकार: ८७. शत्रुनिर्णय


८६१
आत्मनोऽपि बलाढ्यैस्तु वैरभावो विमुच्यताम् ।
न त्याज्यं सर्वदा वैरं स्वस्मादल्पबलान्वितै: ॥
८६२
स्वाश्रितेषु प्रीतिहीनो सैन्यादिबलवर्जित: ।
स्वयं च बलहीनश्‍चेत् कथं शत्रून् विजेष्यति ॥
८६३
भेतव्ये भयहीनस्य ज्ञातव्यं चाप्यजानत: ।
अदातुर्मित्रहीनस्य सुलभा शत्रुवश्यता ॥
८६४
सर्वत्र सर्वदा सर्वै: स जेतुं सुलभो भवेत् ।
य: क्रोधवशमापन्नस्त्वशक्तश्‍चित्तनिग्रहे ॥
८६५
अज्ञात नीतिशास्त्राणामकर्ता शास्त्रकर्मणाम् ।
अभीरुरपवादानां निर्गुण: स्याद्रिपोर्वशे ॥
८६६
स्वपरज्ञानविध्वंसकारणक्रोधसंयुत: ।
विजृम्भत्कामनिचयुक्त: क्षीयेत् सत्वरम् ॥
८६७
स्वारब्धस्यैव कार्यस्य विरुद्धं कुरुते च य: ।
वैरं सम्पाद्यतां तेन साकमर्थं प्रदाय वा ॥
८६८
अगुणी दोषभाङ् मैत्रीं न केनापि स विन्दते ।
तदेव मैत्रीराहित्यं रिपणां जयदं भवेत् ॥
८६९
अज्ञातनीतिशास्त्रार्थै: कार्यसाधनभीरुभि: ।
रिपुर्भियुद्धकर्ता तु जित्वा श्रेष्ठसुखं व्रजेत् ॥
८७०
अज्ञातनीतिशास्त्रैस्तु साकं वैरं फलप्रदम् ।
तथा कर्तुमशक्तो यस्तस्य कीर्तिर्न सिध्यति ॥

अधिकार: ८८.विरोधतत्त्वपरिज्ञानम्



८७१
वस्तुत: परिहासार्थमप्यनर्थप्रदायक: ।
विरोधस्तु न केनापि न कदाचिच्चिकीर्ष्यताम् ॥

८७२
चापाख्यलाङ्गलकरै: वीरैर्वैरं न दु:खदम् ।
वागाख्यलाङ्गलकरैर्बुधैर्वैरं न साम्प्रतम् ॥

८७३
नानाजनविरोधी यो बन्धुमित्रविवर्जित: ।
उन्मत्तपुरुषाच्चापि ज्ञानहीन: स गण्यते ॥

८७४
वैरिणोऽपि सुहृद्‌भूतान् कुर्वन् श्लाघ्यगुणान्वित: ।
यो भवेत् तत्प्रभावस्य वश्यं स्यात् सकलं जगत् ॥

८७५
एकस्य निस्सहायस्य यद्युभौ तु विरोधिनौ ।
सन्भवेतां तयोरेकं मित्रं कुर्वीत् तत्क्षणात् ॥

८७६
त्वया रिपुर्भवेद् ज्ञातस्त्वज्ञातो वा पुरा भृशम् ।
क्लेशे प्राप्ते तु माध्यस्थ्यभावमालम्ब्य पश्य तम् ॥

८७७
नूत्नमित्रस्य सविधे स्वदु:खं न निवेदयेत् ।
शत्रूणां सन्निधौ स्वीयदौर्बल्यं न प्रकाशयेत् ॥

८७८
स्वसत्त्ववर्धक: कार्यतत्त्वज्ञो निजरक्षक: ।
यदि कश्चिद्भवेत्तस्य शत्रवो लयमाप्नुयु: ॥

८७९
बालकण्टकवृक्षस्य छेदनं सुलभं भवेत् ।
स एव वृद्धश्छिन्नश्चेत् छेत्तुश्छिन्नो भवेत्कर: ॥

८८०
गर्वो रिपुणामादौ न हन्यते केनचिद्यदि ।
श्वासग्रहणकालं च न शक्यं तेन जीवितुम् ॥





अधिकार: ८९. आन्तरवैरम्


८८१
रोगप्रदे यदि जलच्छाये त्याज्ये यथा जनै: ।
ज्ञातयो दु:खदास्तद्वत् त्यज्या ह्यान्तरवैरिण: ॥

८८२
असितुल्यान् व्यक्तशत्रून् दृष्ट्‍वा भीति: कुतो वृथा ।
बन्धुवेषान् गूढशत्रून् दृष्ट्‍वा मेतव्य मेव हि ॥

८८३
गूढशत्रुभयादात्मरक्षणं युज्यते सदा ।
अन्यथा नाशमाप्‍नोति सूचीच्छिन्नघटो यथा ॥

८८४
असंस्कृतमनस्केन गूढवैरं भवेद्यदि ।
बन्धुनाशकरान् दोषान् तदा प्राप्‍नोत्ययं जन: ॥

८८५
बान्धव्यमूलकं गूढवैरं भवेद्यदि: ।
मरणान्तानि दु:खानि लभते तत एव स: ॥

८८६
स्वाश्रितेष्वान्तरं वैरं य: कश्चित्कुरुते यदि ।
न तस्य मरणाभावो भविष्यति कदाचन ॥

८८७
बहिर्यथा ताम्रखण्डौ युक्तौ स्यातां न चान्तरा ।
तथाऽन्त:शत्रवोऽन्योन्यं बहिर्युक्तौ न वै हृदा ॥

८८८
अन्तर्विरोधिनां वंशो बलहीन: क्रमाद् भवेत् ।
अय:पिण्ड: कृपाणेन घृष्टो नाशं व्रजेद्यथा ॥

८८९
स्वल्पमप्यान्तरं वैरं लोके भग्नतिलोपमम् ।
कुलनाशकरानिष्टं महान्तं जनयेत् किल ॥

८९०
लोके भिन्नमनस्तत्त्वैर्मानवैस्सह जीवनम् ।
एकत्रैव गृहे सर्पै: सहवाससमं भवेत् ॥





अधिकार: ९०. महात्मनिन्दानिराकरणम्



८९१
आत्मरक्षासाधनेषु श्रेष्ठं तत् तु प्रकीर्त्यते ।
यत्कार्यसाधनपटो: सामर्थ्यस्य परिग्रह: ॥

८९२
महात्मनां तु विषये क्रियमाणा तिरस्कृति: ।
कस्यचित्सकलं दु:खं प्रददाति न संशय: ॥

८९३
शत्रुनिर्मूलनकृतिमिच्छामात्रेण कुर्वता ।
राज्ञा सह कुरु द्वेषं यदि त्वं नाशमिच्छसि ॥

८९४
समं बलवता वैरं क्रियते यद्धि दुर्बलै: ।
हन्तुर्यमस्य हस्ताभ्यामाह्वानसदृशं हि तत् ॥

८९५
क्रूरसत्त्वसमायुक्तभृपक्रोधवशं गत: ।
आत्मनो रक्षणं तस्मात् कुत्र गत्वा करिष्यति ॥

८९६
दग्धोऽपि वह्निना कश्चित् कदाचिज्जीवितुं क्षम: ।
महातामपकारी तु जीवितुं न भवेत् क्षम: ॥

८९७
महात्मा सुतप:शील: कुप्वेद्यदि महीपतिम् ।
तस्य भॄपस्य वित्तेन साम्राज्येनापि किं फलम् ॥

८९८
महद्भि: शैलसदृशै: शप्ता ये भुवि पार्थिवा: ।
स्थिरप्रतिष्ठा: सन्तोऽपि क्षीयन्ते ते सबान्धवा: ॥

८९९
नानाव्रतपरा: सन्त: कुप्यन्ति किल यं प्रति ।
देवेन्द्रो वा भवत्वेष: स्थानाद्भ्रष्ट: पतत्यध: ॥

९००
नानातपोबलवतां प्राप्ता ये कोपपात्रताम् ।
भूपास्ते बलवन्तोऽपि लभेरन् विलयं क्षणात् ॥



====================================================================


No comments:

Post a Comment