Tuesday 6 January 2009

अधिकार 61-70


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय
अधिकार: ६१. आलस्याभाव:

६०१
कुलदीपं प्रभायुक्तमालस्याभिहिंत तम: ।
क्रमेण समभिव्याप्य शमयेत् प्रभया विना
६०२
आलस्यवशमापन्नो य: प्रयत्नविवर्जित: ।
कुलगौरवहानि: स्याद् दोषा: स्युस्तस्य जीविते
६०३
अनर्थकरमालस्यं जडो य: कुरुते वशे
तन्नाशात्पूर्वमेवास्य कुलं विलयमाप्नुयात्
६०४
यो वाऽऽलस्यगुणाविष्ट: शुद्धयत्नविवर्जित: ।
तस्य दोषा: सम्भवन्ति लीयतेकुलोन्नति: ॥
६०५
दीर्घनिद्रादीर्घसूत्रविस्मृत्यालस्यसंयुता: ।
नौकां मग्नोन्मुखां प्राप्ता इव नश्यन्ति ते ध्रुवम्
६०६
स्वयं मैत्री भवतु वा महद्भि: चक्रवर्तिभि: ।
कोऽपि लाभस्तेन स्यात् आलस्यगुणवान् यदि
६०७
विशेषयत्नरहिता: कार्येष्वालस्यभाग्जना: ।
क्रूरवाक्यैर्विनिन्द्यास्ते भवन्ति सुहृदां पुर: ॥
६०८
आलस्याभिहितो दोष: सत्कुले जनुषं नरम्
यद्याप्नोति झाडित्येष: शत्रूणां वशमानयेत्
६०९
कुलीनत्वं पौरुषंतस्य स्याद्दोषवर्जितम्
आलस्यरूपदोषेण यो भवेन्न वशीकृत: ॥
६१०
विष्णुस्त्रिविक्रमो भूत्वा मितवान् यज्जगत्त्रयम्
विन्देत् तज्जगत्सर्वमालस्यरहितो नृप: ॥


अधिकार: ६२. प्रयत्‍नशीलत्वम्


६११
साध्यमिदमित्येतां मतिं त्यक्त्वा प्रयत्यताम्
एव यत्‍नस्ते दद्यात् बलं कार्यसमापने
६१२
जहाति तं नरं लोको य: कर्तव्यं परित्यजेत्
तस्मात् प्रयत्‍नशून्यत्वं मुञ्च कर्तव्यकर्मसु
६१३
परोपकरणे बुद्धिस्तेषामेव प्रवर्तते
अकुण्ठितप्रयत्‍नारव्यगुणेन सहितास्तु ये
६१४
परोपकारं कर्तुंशक्नुयाद्यत्नवर्जित: ।
करवर्तिकृपाणोऽपि भीरु: किं कर्तुमर्हति
६१५
य: सुखेच्छां परित्यज्य कर्मण्येव कृतादर्: ।
तु स्वीयजनक्लेशं वारयेत् स्तम्भतां गत: ॥
६१६
सम्पदं सर्वदा दद्यात् व्यवसायो महीभुजाम्
दारिद्र्यं तस्य जनयेत् व्यवसायविहीनता
६१७
अलक्ष्मी: स्ग्यामला ज्येष्ठा निवसेदलसाश्रिता
आलस्यवर्जिते पुंसि वर्तते पद्मसम्भवा
६१८
ज्ञात्वा यथावक्तार्येषु यत्‍न: स्वीक्रियतां त्वया
विधिना निष्फले यत्‍नेनिन्द्यस्त्वं भविष्यसि
६१९
विधौ ते प्रतिकूलेऽपि मा यत्नं त्यज सर्वदा
अलब्धेऽपि फले कायक्लेशो नैव वृथा भवेत्
६२०
विनालस्यं कर्मलोपमन्तरा यत्‍नवान् नर: ।
प्रतिकूलं विघिं चापिकदाचिद्विजेष्यति


अधिकार: ६३. औत्सुक्यम्


६२१
प्राप्तेऽपि व्यसने खेदं त्यक्तवोत्साहपरो भव
खापनोदनपटुरुत्साहानास्ति कश्चन
६२२
निरर्गलागतं दु:कप्रावाहं बुद्धिमान्नर: ।
हृदये सुखरूपेण जानन् दु:खाद्विमुच्यते
६२३
दु:खेष्वचञ्चलो भूत्वा नरो धैर्यगुणान्वित: ।
दु:खस्य दु:खं जनयन्नारब्धं कर्म साधयेत्
६२४
वृषभ: शकटे बद्धो यत्‍नाल्लक्ष्य> यथा व्रजेत्
व्यवसायपरस्तद्वद् दु:खं दूरीकरोत्यहो
६२५
उपर्युपरि दु:खेषु प्राप्तेष्वपि मनोधृतिम्
यो विन्दतेवै मर्त्यो दु:खं दु:खस्य यच्छति
६२६
धने लब्धेऽपि तल्लब्धमिति यस्तुतुष्यति
दारिद्र्ये नष्टमित्युक्त्वा व्यसनं न स विन्दते
६२७
दु:खाश्रयो देह' इति ज्ञात्वा तत्त्वविदां वरा: ।
दु:खकाले समायतेमुञ्चन्ति मनोधृतिम्
६२८
अनादृत्य सुखं प्राप्तं 'दु:खं स्वाभाविकं नृणाम्' ।
इति भावयतो दु:खं स्वप्रयत्‍नान्न जायते
६२९
सुखानुभववेलायां मनसा योतत्स्पृशेत्
दु:खानुभववेलायां दु:खं तं नैव बाधते
६३०
शत्रुणापि श्लघनीयमौन्नत्यं प्राप्नुयादयम्
दु:खमापतितं यस्तु सुखरूपेण भावयेत्


अधिकार: ६४. अमात्य:


६३१
उचित: समय:, कार्यसाधिके सैन्यसम्पदौ
क्रियाप्रकारस्तच्छ्रैष्ठ्यमिमे मन्त्रिगुणा: स्मृता: ॥
६३२
सामर्थ्यं यत्‍नशीलत्वं कुलीनत्वं मनोधृति: ।
विद्येति पञ्चभिश्चैतै: सहित: सचिवो मत: ॥
६३३
रिपुपक्षजनत्यक्ता स्वपक्षजनरक्षक: ।
गातानां पुनरानेता भवेत् सचिवसत्तम: ॥
६३४
सहेतुकं क्रियाकर्ता कर्तव्यार्थविमर्शक: ।
भावाविष्करणे धीर: सचिचश्रेष्ठ उच्यते
६३५
राजधर्मेनिपुण: स्वशास्त्रार्थविशारद: ।
कालोचितमति: कार्ये भवेत् सचिवसत्तम: ॥
६३६
यस्य स्वाभाविकं ज्ञानं शास्त्र्ज्ञानेन सङ्गतम्
मन्त्रिणस्तस्य पुरत: किं कुर्यु: शत्रुवञ्चना: ॥
६३७
नीतिशास्त्रप्रकारेणयुक्तं कार्यसाधनम्
देशकालानुरोधेन कार्यसाधनमुत्तमम्
६३८
अशृण्वत: सतां वाक्यं स्वयं तत्त्वमजानत: ।
नृपस्य समये तत्त्वकथनं मन्त्रिलक्षणम्
६३९
कुमार्गबोधकामात्यनिकटे वर्तनादपि
कोटिसप्ततिशत्रूणां मध्ये वासोऽपि साम्प्रतम्
६४०
स्मृत्वा यथावत्कार्याणि सम्यकू तत्कर्तुमुद्यत: ।
नैतानि पूर्णतां यान्ति सामर्थ्यभवेद्यदि


अधिकार: ६५. वाग्मित्वम्


६४१
वाग्मित्वगुणसम्पूर्त्या सचिव: श्रेष्ठ्यमाप्नुयात्
गुणमध्ये विशेषेण वाग्मिता राजते यत: ॥
६४२
वक्तुर्वचनभङ्गयैव यत: स्यातां शुभाशुभे +
आलोच्य सावधानेन तस्माद्वाक्यं प्रजुज्यताम्
६४३
यद्वच: श्रुतमात्रेण जनानावर्जयेद् गुणै: ।
अश्रुतानांशुश्रूषा भवेत् तत्तात्त्विकं वच
६४४
वक्‍तृश्रोत्रोर्मनस्तत्त्वं ज्ञात्वा वचनमुच्यताम्
तादृग्वच:प्रयोगेण धर्मार्थौ भुवि सिद्धयत: ॥
६४५
विवक्षा ते यदि भवेदुच्यतां तादृशं वच
इतरेषां वचोभिश्च यज्जेतुं नैव शक्यते
६४६
मनोऽनुकूलमन्येषामुक्तवा तेषां वचस्यपि
त्यक्तवा दोषान् भावमात्रग्रहणं मन्त्रिणां गुण: ॥
६४७
वादे कस्तं जेतुमिश: परमानसरञ्जकम्
विस्मृत्या रहितं धीरं वाक्यं य: समुदीरयेत्
६४८
नानार्थानानुपूर्व्येण सग्रथ्य मधुरं वच: ।
प्रयुञ्जानस्य वचनं लोको गृह्णाति सादरम्
६४९
निर्दुष्टं सार्थकं वाक्यं येजानन्ति भाषितुम्
वाक्यजालमनुस्यूतं वक्‍तुमेव हि ते क्षमा: ॥
६५०
अधीतग्रन्थमन्येषां ये बोधयितुमक्षमा: ।
निर्गन्धफुल्लकुसुमै: ते भजन्ते समानताम्


अधिकार: ६६. क्रियाशुद्धि


६५१
समीचीनेन साह्येन सम्पत् केवलमाप्यते
यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति
६५२
इह कीर्ति: परे पुण्यंसिद्धयेद्येन कर्मणा
सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता
६५३
उपर्युपर्यात्मवृद्धिकांक्षायां यत्‍नमास्थितै: ।
त्यज्यतां तादृशं कार्यं यद्गौखविधातकम्
६५४
प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा
निन्द्यं कार्यंकुर्वन्ति विशुद्धमतयो जना: ॥
६५५
पश्चात्तापकरं कार्यंकुर्वीत कदाचन
प्रमादेन कृते चापि पश्चातापमतिं त्यज
६५६
मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते
सद्भिर्विगर्हितं वर्ज्यं कार्यंहि समाचरेत्
६५७
विधाय निन्दितं कार्यं सापवादं धनार्जनात्
विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम्
६५८
कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत्
कार्यवसानवेलायां दु:खमेव भवेत् तत: ॥
६५९
परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम्
क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत्
६६०
वञ्चनामार्गसम्प्राप्तवित्तरक्षणकर्म तु
अपक्कामघटक्षिप्तजलरक्षणवद्भवेत्


अधिकार: ६७. क्रियादार्ढ्यम्


६६१
कर्तुर्मनसि यद्दार्ढ्यं तत्क्रियादार्ढ्यमीर्यते
सैन्यदुर्गादिदार्ढ्य तु नात्र दार्ढ्यपदेरितम्
६६२
निषिद्धकर्मणस्त्यागो दैवात्तस्मिन् कृतेऽपि च ।
चित्तदार्ढ्यापरित्याग इतीमौ प्रकृते मतौ
६६३
कर्मारब्धमितीत्येतदन्ते चेज्ज्ञायते परै: ।
दृढं भवति तत्, मध्ये ज्ञातं चेद् दु:खमापतेत्
६६४
एवं कर्तव्यमित्येतद्वक्तुं शक्ता: समे भुवि
यथोक्तं कार्यकरणे समर्थो नास्ति कश्चन
६६५
कार्यसाधनशीलस्य क्रियादार्ढ्यं तु मन्त्रिण: ।
महत्वजननाद्राज्ञ: सर्वैरपि महीयते
६६६
चिकीर्षितप्रकारेण ये धीरा: कार्यसाधने
चिकीर्षितं फलं चापि प्राप्नुवन्ति तथैव ते
६६७
महारथाक्षक्षुद्राऽऽणिसमा: सन्तो दृढक्रिया: ।
महत्वे नाकृतिर्हेतु: दार्ढ्यं स्यात्तत्र कारणम्
६६८
प्रसन्नमनसा कार्ये प्रवृत्तेन फलेच्छया
आलस्यदीर्घसूत्रत्वमन्तरा तद्विधीयताम्
६६९
अन्ते सुखप्रदं कार्यं कायक्लेशेषु सत्स्वपि
अवश्यमेव कर्तव्यं दृढचित्तसमन्वितै: ॥
६७०
दार्ढ्ये स्थितेऽप्यन्यकार्ये स्वीकृते पूतकर्मणि
मनोदार्ढ्यविहीनांस्तु मानयन्तिमानवा: ॥


अधिकार: ६८. कार्याचरणप्रकार:


६७१
अनिवार्यमिदं चेति विमर्शन्निर्णये सति
आलस्यं नैव कर्तव्यमन्यथा व्यसनं भवेत्
६७२
यदालस्येन कर्तव्यं तत्रालस्य प्रदर्श्यताम्
त्वरया करणीयं यत् तत्रालस्यंशोभनाम्
६७३
लब्धेऽवकाशो सर्वत्र कृत्वा कार्यं समाप्यताम्
तदभावे यदा यत्तु साध्यं तत् तत्र साध्यताम्
६७४
आरब्धकार्ये यच्छिष्टं शिष्टं यद्धतशत्रुषु
द्वयं गूढं सदन्ते तु दहेच्छिष्टस्फुलिङ्गवत्
६७५
द्रव्यकालक्रियाहेतुस्थलानामनुकूलताम्
पञ्चानामपि विस्पष्ठं बुध्वा कार्यं विधीयताम्
६७६
क्रियासम्बन्धिनो यत्‍नान् विघ्नान् सम्भावितान् तथा
अन्ते महाफलप्राप्तिं त्रयं बुध्वा क्रियां कुरु
६७७
कार्ये प्राप्ते क्रियातत्त्वं बुध्वा पूर्वं तु सा क्रिया
यै: कृता भावमेषांज्ञात्वा कार्ये मतिं कुरु
६७८
मत्तेभमेकं सम्प्रेप्य यथन्यो गृह्यते गज: ।
कृतेनैकेन कार्येण तथान्यदपि साध्यताम्
६७९
सुहृदां साह्यकरणंमुख्यं कुरु तच्छनै: ।
अप्रिया ये स्वशत्रोस्तै: सख्यं प्रथमत: कुरु
६८०
दुर्बला: स्वाश्रितजनत्रासनिर्मूलनेच्छया
बलिष्ठै: सह सम्बन्धं कुर्युरर्थं प्रदाय वा


 अधिकार: ६९. दौत्यम्


६८१
बन्धुप्रीति: कुलीनत्वं राजवाञ्छितसद्‍गुणा: ।
अतैर्विशेषणैर्युक्तो दूतो भवितुमर्हति
६८२
विमृश्य वाक्यकथनपाटवं ज्ञानमार्जवम्
राजप्रीतिरिमे दूतो त्रय: स्वाभाविका गुणा: ॥
६८३
निजराजजयोपायकथनं परभूपतौ
दूतस्य लक्षणं नीतिशास्त्रज्ञत्वं निगद्यते
६८४
विमर्शसहिता विद्या रूपं स्वाभाविकी मति: ।
एतत्त्रितयसम्पन्नो दौत्यकर्म समाचरेत्
६८५
ग्रथयित्वा बहून् शब्दानपशब्दानपोह्य च ।
पत्युएमनोऽनुकूलं यो वक्ति दूत: स कथ्यते
६८६
नितीज्ञा: स्फुटवक्ताधैर्यवान् रिपुसन्निधौ
कालानुकूलप्रज्ञावन् दूत: स्यात् शास्त्रसम्मत: ॥
६८७
कर्तव्यार्थपरिज्ञाता तत्कृतौ देशकालवित्
विमृश्य कथनीयार्थवक्ता स्याद् दूतसत्तम: ॥
६८८
अर्थकामोष्वनासक्ति: सर्वदा साह्यकारिता
मनोदार्ढ्यदूतानां लक्षणं प्रोच्यते बुधै: ॥
६८९
देहवाक्यं प्रमाद्यापिबूयोद्योऽरिसन्निधौ
राजवार्तामन्यराज्ञि वक्तुं युक्त: स एव हि
६९०
शत्रुबाधामवाप्तोऽपि निर्भय: शत्रुमन्निधौ
प्रतिप्रभाववक्ता य: तं दूतं ब्रुवते बुधा: ॥


अधिकार: ७०. राजसेवा

६९१
सचिवो नातिदूरे स्यात् राज्ञो नात्यन्तसन्निधौ
शैत्यबाधानिवृत्त्यर्थं यथाग्निकटं गत: ॥
६९२
राजवाञ्छितवस्तूनि स्वयं लब्धुमानिच्छते
मान्त्रिणे पार्थिवो दद्यादखिलं तेन वाञ्छितम्
६९३
आत्मरक्षणवाञ्छा चेत् राजाप्रीतिं तु मा भज
अप्रसन्ने महिपालेशक्यं तस्य सांत्वनम्
६९४
राज्ञि पश्यति चान्येषां श्रोत्रयोर्गुप्तभाषणम्
सहान्यैर्हास्यवचनं प्रयोक्तव्यंमन्त्रिणा
६९५
रहस्यं भाषते राजा यद्यन्येर्नैव तच्छुणु
प्रश्नंकुर्यात् किं वेति तेनोक्तं चेत् तदा श्रृणु
६९६
ज्ञात्वेङ्गितंकालंभूपतेर्यत्‍तु वाञ्छितम्
अनिराकरणीयं तत् मन्त्री बूयान्मनोहरम्
६९७
पृष्टोऽप्यर्थसम्युक्तं वाक्यं बूयान्महीपतौ
पृष्टोऽपि व्यर्थवचनंवदेत् सचिव : स्वयम्
६९८
'कनिष्ठो वयसा बन्धुभूतोऽय' मिति भूपतौ
निर्लक्ष्यभावमुत्सृज्य दीयतां स्थानगौरवम्
६९९
राजविश्वासपात्रोऽहमित्यनेनैव हेतुना
अनिष्टं भूपतेर्नैव कुर्यान्मन्त्री विशुद्धधी: ॥
७००
'चिरात् परिचितो राजा ममे'ति ममतापर: ।
मन्त्री स्वातन्त्र्यमालम्ब्य नानिष्टं कार्यमाचरेत्





No comments:

Post a Comment