Tuesday 6 January 2009

अधिकार 51-60



Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय



धिकार ५१. विमृश्यविश्वसनम्


५०१
धर्मकामार्थभीत्याद्यै: उपायै: सुपरीक्ष्य तान् ।
लब्धप्रत्ययवान् भूप: कार्ये भ्रुत्यान् नियोजयेत् ॥
५०२
निर्दोषित्वं कुलीनत्वं लज्जा पापेषु भीरुता ।
एतैर्गुणैतान् राजा विश्वसेन्निजसेवकान् ॥
५०३
पूर्वोक्तदोषशून्येषु पण्डिताग्रेसरेष्वपि ।
विचार्यमाणेत्वज्ञानं नूनं द्रष्‍टुं हि शक्यते ॥
५०४
दोषं गुणं वा कस्मिश्चित् स्थितं विज्ञाय तत्त्वत: ।
ग्राह्य: स्याद् गुणभूयिष्ठ: त्याज्यो विविधदोषभाक् ॥
५०५
महत्वं कस्यचित् पुंसो नीचत्वमपरस्य च ।
ज्ञातुं तयोर्वृत्तिरेव निकषोपलतां व्रजेत् ॥
५०६
न कुर्यात्प्रत्ययं बन्धुविंहीनेषु जनेष्विह ।
बन्धुबन्धविहीनत्वात् न निन्दां गणयन्ति ते ॥
५०७
कृत्वा प्रत्ययमज्ञेषु तेषां कार्ये नियोजनात् ।
न केवलं कार्यहानिरज्ञतां विन्दते नृप: ॥
५०८
उदासीनान् प्रत्ययेन य: कार्येषु नियोजयेत् ।
न केवलमयं नश्येत् किन्तु भाविपरम्परा ॥
५०९
विमृश्य विश्वसेत् सर्वान् विचारानन्तरं पुन: ।
अविश्वासं विना तेषां युक्तं कार्येषु योजनम् ॥
५१०
अविमृश्यैव विश्वास: विमृष्टस्य परिग्रहे ।
अविश्वास: इतीत्येतदुभयं खेददायकम् ॥

 धिकार ५२. विमृश्य कार्यकरणम्


५११
शुभाशुभे परामृश्य शुभकार्यैककारिणम् ।
पुरुषं योजयेत् कार्ये निर्भयं पृथिवीपति: ॥
५१२
आयमार्ग परामृश्य धनं सम्पाद्य भूरिश: ।
तद्रक्षको विना विघ्नं राजकार्ये नियुज्यताम् ॥
५१३
ज्ञानं प्रीतिरकालुष्यं निराशा धनसञ्चये ।
गुणैरेतै: समायुक्तो राजकार्ये नियोज्यताम् ॥
५१४
जिता गुणपरीक्षायां तत: स्थाने नियन्त्रिता: ।
अन्ते केचित् स्थानदोषात् जायन्ते दुष्टबुद्धय: ॥
५१५
बुध्वोपायं विघ्नराशिमपोह्य कृतिसाधने ।
समर्थमन्तरा नान्यं राजकार्ये निवेशयेत् ॥
५१६
कर्तुर्गुणं क्रियातत्त्वं कालस्याप्यनुकूलताम् ।
सम्यग्विज्ञाय कार्येषु नरो योज्यो नराधिपै: ॥
५१७
अनेन हेतुना कार्यमेतत् कर्तुमयं क्षम: ।
इत्थमालोच्य तत्कार्ये स एव प्रेर्यतां नृपै: ॥
५१८
स्वकार्यसाधनार्हश्चेत् काश्चित्तस्मिन् क्रियाभरम् ।
निक्षिप्य राज्ञा दातव्यं स्वातन्त्र्यं कार्यसाधने ॥
५१९
बन्धुवत् स्वीकृतं कार्यं कुर्वन्तं प्रेमपूर्वकम् ।
दूरीकरोति दुर्वाधात् यस्तु तं विसृजेद्रमा ॥
५२०
तृप्तेषु कर्मकारेषु लोक: स्यात् क्लेशवर्जित: ।
तत्तर्पणविधौ राज्ञा यत्न: स्वीक्रियतां सदा ॥

 धिकार् ५३. बन्धुप्रीति


५२१
नष्टायामपि सम्पत्तौ सम्बन्धं पूर्वकालिकम् ।
स्मृत्वैव श्लाघनं लोके बन्धुलक्षणमुच्यते ॥
५२२
प्रेमपूर्वकबान्धव्यं कस्यचिल्लभ्यते यदि ।
तदेव सम्पद: सर्वा: तस्मै यच्छेत् सदातना ॥:
५२३
प्रेमपूर्वकबान्धव्यरहितस्य हि जीवनम् ।
जलपूर्णतटाकस्य तीराभावसं भवेत् ॥
५२४
बन्धुसाह्यकरो यस्तु सदा बन्धुभिरावृत: ।
तेन सम्पादितं वित्तं प्रयोजनकरं भवेत् ॥
५२५
बन्धुनां धनदातारं प्रियभाषणतत्परम् ।
तं सर्वदा बन्धुवर्गास्तिष्ठन्ति परिवेष्टिता: ॥
५२६
पृथिव्यां दानशौण्डस्य जितक्रोधस्य भूपते: ।
वशंवदा सदा तिष्ठेत् सकला बन्धुसन्तति: ॥
५२७
काक: स्वीयान् समाहूय भक्षयेदार्जितं च तै: ।
स्वार्जितं बन्धुभि: साकं भुंङ्‌क्ष्व सम्पत्स्थिरा भवेत् ॥
५२८
साम्यबुद्धिं विना राजा योग्यताभेदमूलकम् ।
विभज्य सर्वान् य: पश्येत् तस्य स्युर्बान्धवा: समे ॥
५२९
स्थितं बान्धव्यमादौ यद् हेतुना केनचित् स्वत्: ।
छिन्नं तद् हेतुनान्येन् पूर्ववत् पुनरेधते ॥
५३०
स्नेहं छित्वा गतं पश्चादागतं स्वार्यकरणात् ।
अलोच्य तं तु गृह्णीयादुपकृत्य महीपति: ॥

 धिकार ५४. अविस्मरणम्


५३१
सुखभोगासक्ततया कर्तव्यार्थस्य विस्मृति: ।
चण्डकोपोद्भवानर्थात्, अधिकानिष्टदा भवेत् ॥
५३२
नरस्य नित्यदारिद्र्यं यथा बुद्धिं विनाशयेत् ।
विस्मृति: समये तद्वनाशयेत् प्रथितं यशा: ॥
५३३
पुरुषार्थचतुष्काप्‍त्यै यत्नमाचरतामपि ।
न ते सिध्यन्ति विस्मृत्या नेदं पार्थिवमात्रकम् ॥
५३४
बाह्यदुर्गैर्नास्ति लाभो भये तु हृदये स्थिते ।
स्थितोऽपि विभवो व्यर्थो यदि स्याद्विस्मृतिर्नरे ॥
५३५
प्रथमं विपदं प्राप्तां विस्मृत्या त्वनिवारयन् ।
खेदे समीपमायाते पश्चादुद्विजते नर: ॥
५३६
अविस्मृतिसमारव्येन् गुणेन सदृशं वरम् ।
सर्वत्र सर्वकालेषु न तिष्ठेत् क्षेमदायकम् ॥
५३७
असाध्यमिदमित्येतत् तस्य नास्ति कदाचन ।
अविस्मृत्या साधनीयं कर्म कर्तुं यतेत् य: ॥
५३८
श्लाघितं नीतिशास्त्रज्ञै: क्रियतां कर्म सादरम् ।
अकुर्वाणस्य विस्मृत्या सप्त जन्म वृथा भवेत् ॥
५३९
सन्तोषकाले गर्वेण कर्तव्यं यस्तु विस्मरेत् ।
स्मर्तव्यास्तेन विस्मृत्या पुरा नाशवशंगता: ॥
५४०
चिकीर्षितमविस्मृत्य जागरूकतयाऽनिशम् ।
तत्प्राप्‍त्यै यतमानेन वाञ्छितं साध्यते ध्रुवम् ॥

 धिकार ५५. नीतिपरिपालनम्

५४१
पक्षपातं विना राज्ञा माध्यस्थ्यमवलम्बता ।
यथाशास्त्रं दण्डदानं नीतिपालनमुच्यते ॥
५४२
लोके जीवगणा: सर्वे वर्तन्ते वृष्टिकांक्षुण: ।
देशे जनास्तथा राज्ञ: कांक्षन्ते नीतिपालनम् ॥
५४३
विप्रप्रवर्तितं वेदं धर्मं वेदेषु बोधितम् ।
लक्ष्यीकृत्य न्याय्यमार्गे रक्षणं राजलक्षणम् ॥
५४४
स्ववशे मानवान् कृत्वा रक्षन्तं न्याय्यवर्त्मनि ।
महीपतिं प्रजा: सर्वा: प्रेक्षन्ते प्रीतिपूर्वकम् ॥
५४५
नीतिशास्त्रानुरोधेन रक्षतो धर्मवर्त्मना ।
राज्ञो देशे कालवृष्टि: सस्यावृद्धिश्च जायते ॥
५४६
शूलमात्रेण भूपालो जयं युद्धे न विन्दते ।
लभते नीतिदण्डेन जयं, दण्डो ऋजुर्यदि ॥
५४७
नीतिदण्डेन सकलं जगद्य: पाति पार्थिव: ।
स एव नीतिदण्डस्तं पालयेन्नात्र संशय: ॥
५४८
जनानां सुलभो भूत्वा तेषां श्रुत्वा च वाञ्छितम् ।
अयच्छन् पार्थिवो नीतिं सापवादो विनश्यति ॥
५४९
शत्रुभ्यो रक्षणं नृणां, दण्डनादपराधिनाम् ।
पापापनोदनं, राज्ञां धर्म एव न पापदम् ॥
५५०
मृतिदण्डप्रदानं तु पापिनामाततायिनाम् ।
तृणानिर्मूलनसमं रूढसस्याभिवृद्धये ॥



 धिकार् ५६. अनीत्यापालनम्


५५१
जनहिंसापरो राजा न्यायातीतपदानुगा: ।
निर्घुणाद् घातकाच्चापि भुवि क्रूरतमो मत: ॥
५५२
नीत्या पालयता राज्ञा प्रजाभ्यो वित्तयाचनम् ।
चोरेण शूलिना पान्थात् वित्तचौर्यसमं मतम् ॥
५५३
देशे दिने दिने जाताननर्थान् विमृशन् नृप: ।
परिहारमकुर्वाण: क्षीणराज्य: क्रमाद्भवेत् ॥
५५४
भाव्यनर्थमनालोच्य न्याय्यमार्गविरोधत: ।
भूपस्य रक्षतो वित्तं नश्येत् तेन प्रजा अपि ॥
५५५
अधर्मपालनोद्‍भूतक्लेशभाजां नुणां भुवि ।
अश्रुपात: श्रियं राज्ञो नाशयेदायुधात्मना ॥
५५६
विन्दते सुस्थिरां कीर्ति भूपो धर्मेण पालयन् ।
अनीत्या पालयन् राजा नष्टकीर्तिर्भविष्यति ॥
५५७
दयाधून्यमहीपालपाल्यमाननृणां स्थितम् ।
वृष्टिहीनप्रदेशस्थजनास्थितिसमां विदु: ॥
५५८
धर्ममार्गं समुल्लंघ्य रक्षत: पृथिवीपते: ।
देशे सतां तु दारिद्रयात् सम्पत्क्लेशाय कल्पते ॥
५५९
पयोधरा न वर्षन्ति काले वृष्टिश्च निष्फला ।
धर्म्य पन्थानमुल्लंघ्य नृपे शासति मेदिनीम् ॥
५६०
अरक्षति भुवं भूपे पथा न्यायानुरोधिना ।
विप्रा: क्षुतिं विस्मरेयु: न दद्यु: पशव: पय:

 धिकार ५७. निर्भयत्वम्


५६१
दुष्ट विचार्य ताटस्थ्यात् पुनस्तं दोषकर्मण: ।
निवारयन् पालयेद् य: स भूपाल इतीर्यते ॥
५६२
दण्डयेषु कठिनो भूत्वा दण्डनावसरे सति ।
लघु दण्डयतो राज्ञ: सम्पत्तिष्ठेदचञ्चला ॥
५६३
अधर्मपालनाद्यस्य प्रजा: स्युर्भयाविह्वला: ।
अचिरादेव भूपाल: स लयं  यास्यति ध्रुवम् ॥
५६४
"अस्माकं पार्थिव: क्रूर" इति देशजनेरितम् ।
य एतच्छुणुयाद्वाक्य> क्षीणायु: स विनश्यति ॥
५६५
अप्रसन्नमुखो नृणामगम्य: सुलभेन य: ।
महीपालस्तस्य वित्तं भूताविष्टमिव वृथा ॥
५६६
दाक्षिण्यगुणहीनस्य कटुवाक्यप्रयोगिण: ।
भूपस्य निखिलं वित्तमस्थिरं क्षीयते क्षणात् ॥
५६७
कटुवाक्यमधर्मेण पालनं च महीभुजाम् ।
अरिविध्वंसनापेक्षिसत्त्वनिर्मूलहेतुकम् ॥
५६८
अनालोच्यैव सचिवै: कृते कार्ये च विघ्निते ।
य: कुप्येत् सचिवान् राजा क्षीयन्ते तस्य सम्पद: ॥
५६९
पूर्वं दुर्गमनिर्माय राजा युद्धभुवं गत: ।
विमेक्तोऽनुचरै: सर्वैर्भीत: सन् क्षयमाप्नुयात् ॥
५७०
नियुज्य विद्यारहितान् मुख्यस्थानेषु भूपति ।
पालयेद्यादि तर्ह्येतै: भूमेर्भारो निरर्थक: ॥



 धिकार ५८. दाक्षिण्यम्


५७१
तदैव भविता लोके प्रजानां सुखजीवनम् ।
दाक्षिण्यगुणसम्पूर्ति: यदा स्यात् पृथ्वीपतौ ॥
५७२
लोको जीवति दाक्षिण्यात् तद्विहीननरा भुवि ।
यदि जीवन्ति तैर्भूमे: भार एव न संशय: ॥
५७३
साहित्येन विना गानं यथा स्यान्न मनोहरम् ।
दाक्षिण्यवर्जितं कुत्स्नं जगत्तद्वन्निरर्थकम् ॥
५७४
दाक्षिण्यगुणहीनस्य किं नेत्राभ्यां प्रयोजनम् ।
ते ह्यलंकाररूपेण लसत: केवलं मुखे ॥
५७५
नेत्रस्यालंकरणं पुंसां दाक्षिण्यगुण इष्यते ।
तद्विहीनं तु नयनं धत्ते व्रणसमानताम् ॥
५७६
स्थितेऽपि नेत्रे दाक्षिण्यगुणहीनो भवेद्यदि ।
अचञ्चलमहीरूढतरुरेव स मानव: ॥
५७७
दाक्षिण्यवर्जिता मर्त्या नेत्रहीना मता भुवि ।
केचिन्नयनवन्तोऽपि सन्ति दाक्षिण्यसंयुता: ॥
५७८
दाक्षिण्यगुणशीलस्य गच्छतो न्याय्यवर्त्मनि ।
पार्थिवस्य वशे कृत्स्नं जगद्वर्तेत सुस्थिरम् ॥
५७९
कृतापराधिनि जने दाक्षिण्यं सम्प्रदर्श्य च ।
तद्देषसहनं राज्ञां भवेत् स्वाभाविको गुण: ॥
५८०
सुहृद्दत्तं विषं चापि पीत्वा प्रत्ययकारणात् ।
मैत्रीं च तेन कुर्वन्ति दाक्षिण्यगुणकांक्षिण: ॥

अधिकार: ५९. चारप्रेषणम्


५८१
पार्थिवश्चारपुरुषं नीतिशास्त्रं तथोत्तमम् ।
इमे नेत्रसमे कृत्वा पालयेदनिशं भुवि ॥
५८२
सर्वकाले सर्वदेशे प्रवृत्तान् विषयान् समान् ।
बुध्वा शीघ्रं चारमूलाद्रक्षणं राजलक्षणम् ॥
५८३
स शत्रुवशमापन्न: पार्थिव: क्षयमाप्नुयात् ।
बुध्वापि विषयान् चारौ: य: पूर्वं न विचारयेत् ॥
५८४
सेवकान् बान्धवान् शत्रून् सर्वान् वाचा च कर्मणा ।
विमृश्य राज्ञे विषयदाता चार इति श्रुत: ॥
५८५
परदुर्ज्ञेयविषयान् निर्भीत: शत्रुसन्निधौ ।
गूढार्थगोपनपटु: चार इत्यभिधीयते ॥
५८६
शास्त्रागारादिकं क्षिक्षुवेषो गत्वा विचार्य च ।
ज्ञातोऽपि शत्रुभिर्धीरो य: स्याच्चार: स गण्यते ॥
५८७
अनेकगुप्तविषयान् बहिरानाय्य मेधया ।
ज्ञात्वा यथावद् भूपाय कथनं चारलक्षणम् ॥
५८८
चारणैकेन कथितमन्यचारेण चेरितम् ।
एकार्थकं यदि भवेत् गृह्यतां तत् त्यजेतरम् ॥
५८९
परस्परमसंवेद्यान् त्रयश्चारान् नियोज्य तु ।
त्रिभिरुक्तोऽपि विषय: समश्चेद् गृह्यतामयम् ॥
५९०
चाराय देयं सन्मानं राज्ञा गुप्तं न तद् बहि: ।
नो चेद् गुप्तार्थविषय: सर्वैश्च विदितो भवेत् ॥



 अधिकार: ६०. उत्साहसम्पत्ति:


५९१
उत्साहहितो लोके सम्पन्न इति कथ्यते ।
तदभावे भवेद्रिक्त इतरै: सहितोऽपि स: ॥
५९२
उत्साहसदृशं वित्तं स्थिरं लोके न वर्तते ।
धनमन्यत्क्रमाच्छीघ्रं ध्रुवं विलयमेष्यति ॥
५९३
नष्तायामपि सम्पत्तौ स तु खेदं न विन्दते ।
उत्साहरूपसम्पत्त्या सदा य: सहितो भुवि ॥
५९४
अनाहूतापि लक्श्मीस्तं स्वयमन्विषय विन्दते ।
यस्मिन्नकुण्ठितोत्साहो विद्यते सर्वदा नरे ॥
५९५
दैर्घ्यं प्रसूननालस्य नीरागाधनिबन्धनम् ।
तथा जीवितवृद्धिश्र स्यादुत्साहनिबन्धना ॥
५९६
भूपेन चिन्त्यतां स्वीयमौन्नत्यं प्रति सर्वदा ।
कार्यं भवतु वा मा वा श्लाघ्यते यत्नवान्नरै ॥
५९७
औन्नत्यं न विमुञ्चन्ति बाणविद्धा अपि द्विपा: ।
तद्वदुत्साहवन्तोऽपि न विघ्नाद्विरमन्ति हि ॥
५९८
उत्साहवर्जितनृपा "वयं दानागुणान्विता: "
इति मत्वा न वै दोषमाप्नुवन्ति कदापि ते ॥
५९९
महाकायसमायुक्त: क्रूरदन्तसमन्वित: ।
गजेऽपि व्याघ्रमालोक्य भीत: सद्य: पलायते ॥
६००
नराणां बलमुत्साह: तद्विहीननरा द्रुमा: ।
आकारेणैव ते वृक्षा: निष्फलाश्च निरर्थका: ॥


=================================================================


No comments:

Post a Comment