Tuesday 6 January 2009

अधिकार 31-38


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

१. उपोद्‍घात:

 धिकार ३१. क्रोधविजय:


३०१
अशक्ते कोपरहित: जितक्रोध इतीर्यते।
शक्ते क्रोधं जयतु वा मा वा स विषय: पर:॥
३०२
शक्तेषु कोपकरणात् दण्डदु:खमिहाश्‍नुते।
अशक्ते कुपितो निन्दां पापं च लभते द्वयम्॥
३०३
विस्मृत्य वर्तितव्यं तु सर्वत्र क्रोधमन्तरा।
क्रोधाद्भवन्ति दु:खानां परिणामास्त्वनेकधा॥
३०४
मुखे विकसं मनसि तुष्टिं क्रोधो विनाशयेत्।
तस्मात् क्रोधसम: शत्रु: को न्वस्ति भुवि देहिनाम्?॥
३०५
य आत्मरक्षणे व्यग्र: स कोपं परिवर्जयेत्।
अन्यथा शत्रु भूतोऽसौ नाशयेत् कोपशालिनम्॥
३०६
आश्रयं नाशयेद्वह्नि: कोपाग्नि स्वाश्रितै: सह।
ज्ञानोपदेष्टन् दूरस्थान दहेन्नौकासमान् गुरून्॥
३०७
वस्तुना कोपरूपेण स्वप्रभाव प्रकाशक:।
महीं ताडयते हस्त इव नृनं प्रबाध्यते॥
३०८
चण्डज्वालासमेताग्निदाहेन सदृशीं व्यथाम्।
कुर्वत्यपि नरे क्रोधो न कार्यो यदि शक्यते॥
३०९
क्रोधं यस्तु महाप्राज्ञो मनस: संनिधापयेत्।
वाञ्छिता: सम्पद: सर्वा: सद्य एवाप्नुवन्ति तम्॥
३१०
नरा: क्रोधवशं प्राप्ता मृतप्राया भवन्ति हि।
जितक्रोधा नरा: सर्वे मन्यन्ते योगिभि: समा:॥



धिकार ३२. अपकारत्याग


३११
यश: पदे महाभाग्ये प्राप्तेऽपि परहिंसया।
अपकारमतिं त्यक्त्वा लक्ष्ये जीवन्ति साधव:॥
३१२
विरोधादपकर्तुश्‍च प्राप्तेऽपि समयान्तरे।
अपकारमकृत्वैव लक्ष्ये तिष्ठन्ति साधव:॥
३१३
कारणेन विना द्रोहं कुर्वतामपि देहिनाम्।
अपकारो न कर्तव्योनो चेत् दु:खं स विन्दति॥
३१४
उपकृत्यापि श्त्रूणा मुपकारापकारयो:।
विस्मृति: साधुभिर्दत्तं दण्डनं स्याद्विरोधिषु॥
३१५
परदु:खं स्वदु:खेन समं मत्वापि तो जन:।
परान्न त्रायते तस्य तत्वज्ञानेन किं फलम्?॥
३१६
'अनेन कर्मणा दु:खं प्राणिनां भविता ध्रुवम्'।
इति निर्धारितात् कार्यात् सर्वदा विरतो भवेत्॥
३१७
सर्वत्र सर्वदा किञ्चिदपि दु:खप्रदायकम्।
बुद्धिपूर्वे न कर्तव्यं स धर्म: परमो मत:॥
३१८
'ममेदं दु:खजनकमि'ति ज्ञात्वापि तादृशम्।
प्राणिनामितरेषां च कुतो वा कुर्वते जना:?॥
३१९
अपकारान् य: करोति पूर्वाह्णे परदेहिनाम्।
अपराह्णे तु दु:खानि स्वत एव भजन्ति तम्॥
३२०
परापकारो नो कार्य: निर्दु:खं वस्तुमिच्छता।
परदु:खकरा एव दु:खवन्तो भवन्ति हि॥



 धिकार ३३. अवध


३२१
प्राणिनामवधेनैव सर्वपुण्यफलं भवेत्।
हननात्प्राणिवर्गाणां सर्व पापफलं भवेत्॥
३२२
लब्धं विभज्य भुक्त्वा तु यत्प्राणिपरिरक्षणम्।
शास्त्रकारोक्त धर्मेषु प्रशस्तमिदमीर्यते॥
३२३
आद्यो निरुपमो धर्म: प्राणिनामवधो मत:।
विमृष्टे सत्यकथनं द्वितीयं स्थानमर्हति॥
३२४
अकृत्वा प्राणिनां हत्यां लक्ष्यमार्गे प्रवर्तनम्।
मोक्षादिलोकजनक: सन्मार्ग इति मन्यते॥
३२५
अवधाख्यं वरं धर्मे य: सदा परिरक्षति।
संसारभीत्या सन्न्यास भाजिनोऽप्युत्तमो हि स:॥
३२६
अवधाख्ये वरे धर्मे विद्यमानस्य शाश्‍वतम्।
जीवितेऽग्रये कृतान्तोऽपि न विशेत् प्राणभक्षक:॥
३२७
आत्मानो मरणं वापि जायतां प्राणिमूलकम्।
न कार्या प्राणिनां हत्या स्वात्मरक्षणमिच्छता॥
३२८
जीवनां हत्यया श्रेष्ठं भाग्यं कामं भवेद् भॄशम्।
वधमूलगातं भाग्यं सन्त: पश्‍यन्ति गार्हितम्॥
३२९
वधदोषं विजानन्त: सन्तो हत्याकारन् जनान्।
कुलीनानपि चण्डालसमान् पश्‍यन्ति कर्मणा॥
३३०
रुग्णान् दरिद्रान् शास्त्रज्ञा: पश्‍यन्तो नीवजीवनान्।
"इमे जन्मान्तरे जघ्नु: प्राणा" नित्येव जानते॥



 धिकार् ३४. अनित्यता


३३१
अनित्येषु पदार्थेषु नित्यताया निरूपणात्।
मन्दबुद्धिर्यदि भवेत् निन्दितं तस्य जीवितम्॥
३३२
आयान्ति सम्पदो लोका इव नाटकमन्दिरम्।
निर्यान्ति सम्पदो लोका इवान्ते नाटकालयात्॥
३३३
अस्थिरं सर्वदा भाग्यं तद्भाग्यं यदि लभ्यते।
सद्यस्तेन स्थिरा धर्मा: कर्तव्या मोक्षमिच्छता॥
३३४
कृपाणसदृशो भूत्वा दिवस: तत्त्ववित्तमान्।
विशस्य क्रमश: काले क्षीणप्रणाण् करोत्यहो॥
३३५
ऊर्ध्वश्वास: स्वलज्जिह्न: मृत्युबाधायुतो यदा।
न भवेत्त्वरया पूर्वे मोक्षार्थे धर्ममाचरेत्॥
३३६
आसीत्पूर्वदिने कश्विदद्य सो‍ऽयं मृतोऽभवत्।
इत्यस्थिरत्वमाहात्म्य परीतं लोकजीवितम्॥
३३७
क्षणिकं जीवनं मूढा न स्मरन्ति कदाचन।
चिन्तयन्ति परं नाना कोटिशो विषयान् वृथा॥
३३८
द्विजे चाण्डं परित्यज्य व्योममार्गे गते सति।
द्विजस्याण्डेन सम्बन्धो य: स स्याज्जीवदेहयो:॥
३३९
जीवस्य मरणं लोके निद्रया सदृशं भवेत्।
पश्‍चात् प्रबोध तुल्यं स्यात् जीवस्य, जननं पुन:॥
३४०
रोगाधीनशरीरस्य कोणे जीव: स्थितोऽधिपै:।
व्याधिभिर्हिसितोऽद्यापि किं न लेभे स्थिरं गृहम्?॥



 धिकार ३५. सन्न्यास:


३४१
आसक्तिं कुरुते नैव यस्मिन् यस्मिश्व वस्तुनि।
तस्मात्तस्माद्वस्तुन: स न दु:खं लभते नर:॥
३४२
यदीच्छसि सुखं वस्तुं सत्स्वेव वहुवस्तुषु।
जहि तानि महत्सौख्यं तव तेन भवेदपि॥
३४३
आदौ पञ्चेन्द्रियग्राह्याद्विषयाद्विरतो भवेत्।
पश्चात्सर्वपदार्थेषु त्यागबुद्धिर्वरा मता॥
३४४
सर्वसङ्‍गपरित्यागात् सुलभं वर्धते तप:।
बन्धनाद्योग विभ्रष्टस्त्वज्ञानवशगो भवेत्॥
३४५
संसारान्मुक्तिकामस्य देहो भवति भारद:।
तथा सत्यन्यदेहेन कुत: सम्बन्धकल्पनम्॥
३४६
मेमेदमहमेवेति नानाज्ञान विवर्जिता:।
प्राप्नुवन्ति मह्त्स्थानं देवनमपि दुर्लभम्॥
३४७
ममकारहंकृतिभ्यां विमुक्तो यो न जायते।
दु:खान्यपि न मुञ्चन्ति सर्वदा तं नराधमम्॥
३४८
उत्तम: स हि म्न्तव्य: सर्वे त्याजति य: क्षणे।
अज्ञानवशमापन्ना भवन्ति मनुजा: परे॥
३४९
द्विविधे बन्धने याते जन्मदु:खं विमुच्यते।
अन्यथा जन्ममरण प्रवाहस्त्वनवस्थित्:॥
३५०
सर्वबन्धविनिर्मुक्ते हरौ बध्नाति यो मन:।
सर्वस्माद् बन्धनामुक्ति: स्वतस्तस्य भविष्यति॥



 धिकार ३६. तत्वज्ञान


३५१
असत्यं सत्यमित्येव पश्‍यद्भिर्भ्रममूलत:।
प्राप्यते जन्म चाज्ञानात् गर्हितं दु:खदायकम्॥
३५२
अविद्यां समतिक्रम्य तत्त्वज्ञान निषेवणात्।
जन्मदु:खमलब्ध्वैव प्राप्यते ब्रह्मण: पदम्॥
३५३
असंशयमधीत्यात स्तत्त्वज्ञान मुपेयुषाम्।
भूलोकादपि दूरस्थमत्के स्याह्ब्रह्मण: पदम्॥
३५४
इन्द्रियाणीन्द्रियार्थेभ्य: नियम्य मनसो वशे।
स्थापनेनापि किं कार्ये तत्त्वज्ञानं न चेद्भवेत्॥
३५५
तेषु तेषु पदार्थेषु पदार्थान्तर विभ्रमम्।
विहाय तत्त्वतो ज्ञानं तत्त्वज्ञानमितीर्यते॥
३५६
अध्येतव्यं गुरुमुखादधीत्य बहुधा बहु।
तत्त्वार्थज्ञान सम्पन्ना यान्ति मोक्षपथं स्थिरम्॥
३५७
श्रुतार्थस्य परामर्शात् तत्त्वमाघं विजानत:।
जन्मास्य पुनरस्तीति न मन्तव्यं कदाचन॥
३५८
जन्मबाधाकराज्ञान मुक्तये मुक्तिदस्य तु।
ब्रह्मणो दर्शनं यत्तु तत्त्वज्ञानं तदुच्यते॥
३५९
ज्ञात्वा ब्रह्म जगद्धेतुं यतमानस्य मुक्तये।
जन्ममृत्युमयं दु:खं न जायेत कदाचन॥
३६०
काम: क्रोधस्तथाऽज्ञानमिति दोषास्त्रयो हृदि।
नाम्नापि न भवेयुश्वेद्भवदु:खं विनश्यति॥



 धिकार ३७. निराशा



३६१
अनुस्यूतं प्रवृत्तस्य सर्वदा सर्वजन्तुषु।
संसारमय दु:खस्य बीजमाशेत्युदीर्यते॥
३६२
लभ्यतां जन्मराहित्यं लब्धव्यं किञ्चिदस्ति चेत्।
तदपि प्राप्यते सर्व वस्तुनैराश्य बुद्धित:॥
३६३
निराशासदृशं श्रेष्ठं वित्तं नास्रि जगत्तले।
लोकान्तरेऽपि तत्तुल्यं वस्तु लब्धुं न शक्र्यते॥
३६४
आशाविरहितावस्था मोक्ष इत्युच्यते बुधै:।
अवस्था सापि तत्त्वस्य ब्रह्मणो भजनाद्भवेत्॥
३६५
ते जन्मरहिता ज्ञेया ये निराशास्तु सर्वत:।
आशायुतानां नि:शेषं बन्धमुक्तिर्न जायते॥
३६६
आशा समयमालक्ष्य पातयेत् जन्मबन्धने।
निराशारक्षणं तस्माच्छ्रेष्ठो धर्म: प्रगीयते॥
३६७
सर्वशाविजये प्राप्‍ते कायशोषण मन्तरा।
लभ्यते जन्मराहित्यं सर्वो धर्म: कृतो भवेत्॥
३६८
निराशानां कुतो दु:खम्, आशापाशवशात्मनाम्।
उपर्युपरि दु:खानि समयान्ति निरर्गेलम्॥
३६९
दु:खेषु परमं दु:खमाशादु:खं विमुञ्चत:।
न परं ब्रह्मणो लोके, सुखमत्रापि शाश्वतम्॥
३७०
सदा दवीयसीमाशां यो वै जयति सर्वदा।
निर्विकारां तथा नित्यं मुक्तिं सद्य: स विन्दति॥



 धिकार ३८. विधि:


३७१
अर्थार्जने प्रयत्न: स्यादर्थप्रापककर्मणा।
आलस्यं जायते तस्मिन्नर्थ  नाशककर्मणा॥
३७२
विदुषो‍ऽपि भवेन्मौढ्‍यं अर्थनाशककर्मणा।
मूढस्यापि भवेज्ज्ञान मर्थप्रापककर्मणा॥
३७३
अधीत सर्व शास्त्रैरप्यशुभं कर्म यत् कृतम्।
तदेव समयं प्राप्य तत्त्वज्ञानं विनाशयेत्॥
३७४
एको भवति वित्ताढ्‍यो विद्यया सहितोऽपर:।
कारणं विधिरेवात्र स्वभावो लोकसम्मत:॥
३७५
अकालेऽप्याप्नुयाद्वित्त मनुकृले विधौ सति।
कालेऽपि तन्न लभ्येत विपरीते विधौ सति॥
३७६
सुरक्षितमपि भ्रश्येत् विधिमूलमनागतम्।
अरक्षितं च तित्तिष्ठे द्विधिमूलं यदागतम्॥
३७७
कोटिसंख्यायुतं वित्तं सम्पादयतु वोपरि।
विधिना यावदाप्नोति भोक्‍तुं नालं ततोऽधिकम्॥
३७८
दुष्कर्मवशमापन्ना महाभाग्यात् स्थितादपि।
नरा: सुखं न विन्दन्ति सन्न्यासं प्राप्नुवन्ति च॥
३७९
लब्ध्वा शुभतरं कर्म हृष्टो भवसि सर्वदा।
अशुभे तु समायाते वृथा शोचसि तत् कुत:?॥
३८०
विधिना तु समं वस्तु बलवन्नेह विद्यते।
विनाश्य मानुषं यत्नं विधिरेव जयेत् सदा॥



No comments:

Post a Comment