Tuesday 6 January 2009

अधिकार 1-10


Thirukkural in Sanskrit (तिरुक्कुरळ्संस्कृतानुवाद)

१. उपोद्‍घात:
 धिकार १. ईश्वरवन्दनम्


अकारादेव निर्यान्ति समस्तान्यक्षराणि च ।
चराचरप्रपञ्चोऽय मीश्वरादेव जायते ॥
ईशस्य ज्ञानरूपस्य विना पादनिषेवणम् ।
सन्त्वधीतानि शास्त्रणि न तैरस्ति प्रयोजनम ॥
भक्तानां मानसाम्भोजवासिने जगदीशितु: ।
भजतां पादयुगलं जायन्ते नित्यसम्पद ॥
दयालो: सर्वमित्रस्य शरणागत् सक्षिण: ।
नमतां पादयुगलं न स्याद् दु:खं कदाचन ॥
माहात्म्यमप्रमेयस्य ज्ञात्वा तं भजतां नृणाम् ।
अज्ञानमूलकं कर्म द्विविधं चापि नश्यति ॥
पञ्चेन्द्रियाणि संमृश्य तान्यथोंभ्यो निवर्तयन् ।
ईश्वरोक्तेन मागेंण गच्छन् नित्यसुखी भवेत् ॥
ईशं निरुपमं नित्यं यो वै शरणमाश्रित: ।
स एवदु:खरहितो नित्यं सुखमिहाश्‍नुते ॥
धर्मसिन्धो: दयामृतें: नावं चरणरूपिणीम् ।
अलब्ध्वा दु:खजलधे: पारं गन्तुं न शक्यते ॥
गुणाष्टकयुतेशस्य पदे येन न वन्दिते ।
दृष्टया विरहितं चक्षुरिव तस्य शिरो वृथा ॥
१०
नावं भगवत: पादरूपिणीं प्राप्‍नुवन्ति ये ।
ते तरन्ति भवाम्भोधिमितरैस्तर्तुमक्षमम् ॥



 धिकार . वृष्टिमहिमा


११
लोकोऽयं जीवति सदा यतो वर्षेण् हेतुना ।
लोकस्थितिकरं वर्षे ततोऽमृतमिदं विदु: ॥
१२
आहारापेक्षलोकस्य भोज्यं धान्यादिकं बहु ।
उत्पाथ पेयतामेति स्वयं वर्षे जलात्मना ॥
१३
चतुर्भि: सागरै: देशे व्याप्तेपि क्षुदियं स्थिता ।
प्राणिनो बाधते मेघे यथाकालमवर्षति ॥
१४
नष्टायां वर्षसंपत्तौ धान्योत्पादनतत्परा: ।
ला‌ङ्गलेन भुवं नैव कर्षयेयु: कृषीवला: ॥
१५
वर्षे त्ववर्षत् जगतीं नाशयित्वा कदाचन् ।
अथ स्वयमनावृष्टि बाधितामपि रक्षति ॥
१६
जलानां बिन्दवो मेघात् न पतेयुर्यदि क्षितौ ।
लोके द्रष्टुं न शक्यन्ते हरितास्तृणसम्पद: ॥
१७
पीत्वा जलनिधिं लोके यदि मेघो न वर्षति ।
अगाघोऽप्युदधिस्तेन समृद्धिरहितो भवेत् ॥
१८
देवताराधनं नित्यं विशेषादुत्सवादिकम् ।
लोके नैव प्रवर्तेत मेघो यदि न वर्षति ॥
१९
परार्थमिह यद्दानमात्मार्थञ्चेह यत् तप: ।
अभयं न भवेल्लोके यदि देवो न वर्षति ॥
२०
जलाभावे लोकयात्रा सर्वेषामेव देहिनाम् ।
न स्यात्; वर्ष विना नैतत्; सदाचारादिकं तथा ॥

धिकार . यतिवैभवम्


२१
संन्यासिनां सदाचारशीलानां विदितात्मनाम् ।
आमनन्ति समे ग्रन्था: मान्या माहात्म्यमुत्तमम् ॥
२२
निराशस्य मुने: श्रैष्ठयगणनं 'जीवयकोटय: ।
कति जाता मृताश्चे'ति गणनेन समं भवेत् ॥
२३
विज्ञाय मोक्षभवयो: संभवं सुखदु:खयो: ।
संन्यासं भजतां मुक्त्यै प्रभावो बहुमन्यते ॥
२४
धैर्याङ्कुशेन् संयम्य गजान् पञ्चेन्द्रियात्मकान् ।
य: पालयत्ययं मोक्षफलकृद्वीजवद्भवेत् ॥
२५
आशापञ्चकमुक्तस्य गीयते शक्तिरुत्तमा ।
गौतमादात्तशापोऽत्र देवराजो निदर्शनम् ॥
२६
सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनै: ।
ये कुर्वन्त्युत्तमास्ते स्यु: अन्येत्वधम मध्यमा: ॥
२७
रूपगान्धरसादीनां तन्मात्राणां विधां भुवि ।
जानाति य: प्रपञ्चोऽयं वशे तस्य भविष्यति ॥
२८
यतोक्तधर्मनिष्ठानां यतीनां महिमादिकम् ।
मन्त्रादि सहितैर्वेदवाक्यैरेव निरूप्यते ॥
२९
गुणपर्वतमारूढा: मुनय: कुपिता यदि ।
क्षणिकोऽपि स दुर्वारफल:शान्तिप्रसादने ॥
३०
सर्वभूतदयासान्द्रा: ये तु धर्मपरायणा: ।
त एव ब्राह्मणा: प्रोक्ता: यतय: संशितव्रता ॥

 धिकार . धर्मवैशिष्टयम्


३१
धर्मात् सञ्जायते कीर्ति: धर्मादुत्पघते धनम् ।
धर्मादप्यधिकं वस्तु प्राणिनां किं नु घर्तते ॥
३२
धर्मानुष्ठानविभवात् देहिनां आयते सुखम् ।
धर्माणामननुष्ठानादनिष्ठं संभवेदिह ॥
३३
मनोवाक्कायकरणै: धर्मकार्ये यथाविधि ।
कर्तव्यं ख्यात् यथाशक्ति समयस्यानुरोधत: ॥
३४
यत् कृतं शुद्धमनसा स धर्म इति कथ्यते ।
हच्छुद्धिरहितं कर्म केवलाडम्बरार्थकम् ॥
३५
क्रोधो लोभ: कठोरोक्तिरसूयेति चतुर्विधान् ।
दोषान् विना कृतं कार्ये धर्म इत्युच्यते बुधै: ॥
३६
पश्चादिति भतिं त्यक्त्‌वा बाल्ये धर्मे वितन्वत: ।
स धर्मो मृत्युकाले ऽपि स्थित: साह्यकरो भवेत् ॥
३७
शिबिकावाहकं हष्टवा तत्रत्यञ्च समक्षत: ।
धर्मप्रभावे सुज्ञेये कुत: शास्त्रं कुत: श्रुति: ॥
३८
अनुस्यूततया धर्मकार्ये जन्मनि यत् कृतम् ।
तत् पुनर्जन्ममार्गस्य निरोधकशिलायते ॥
३९
यल्लब्धं धर्ममार्गेण तदेव सुखमिष्यते ।
अधर्माद्वस्तु यत् प्राप्तं न सा कीर्ति र्न तत् सुखम् ॥
४०
सत्कर्मैंव सदा कार्यम् सर्वयत्‍नेन मानवै: ।
अपवादकरं चान्यत् वर्जनीयतयोच्यते ॥

 धिकार् . गार्हस्थ्यम्


४१
त्रयाणामपि वर्णानां स्वधर्ममनुतिष्ठताम् ।
गृहस्थो धर्मनिरतो नित्यं साह्यकरो मत्: ॥
४२
यतीन् मृतान् दरिद्रांश्च निर्गतीन् अतिथीनपि ।
गृहस्थोऽन्नादिदानेन स्वाश्रितानपि रक्षति ॥
४३
पितृदेवातिथीनां च बन्धूनामात्मनस्तथा ।
सत्कृतिर्धर्ममागेंण गृहस्थस्य वरा मता ॥
४४
अपवादभयाद्वित्तं सम्पाद्य सकलै: सह ।
भुञ्जानस्य गृहस्थास्य निर्दुष्टं जीवनं भवेत् ॥
४५
गार्हस्थ्यजीवनं यत् स्यात् स्नेहधर्मसमन्वितम् ।
तदेव सार्थकं लोके तद्धि गार्हस्थ्यमुच्यते ॥
४६
गार्हस्थ्यजीवनं येन धम्यें मागें प्रवर्त्येते ।
किं वा प्रयोजनं तस्य वानप्रस्थादिना पथा ॥
४७
धर्मेण वर्त्मना यस्तु गार्हस्थ्य मुपसेवते ।
मार्गन्तरोपजीविभ्य: स प्रशस्तो निगद्यते ॥
४८
कारयित्वा परैर्धर्मे धर्ममार्गाबलम्बिन: ।
जीवनं च गृगस्थस्य श्‍लाघ्यते यतिजीवनात् ॥
४९
स एव धर्मशब्दार्थो यद्धि गार्हस्थ्यजीवनम् ।
गृहस्थधर्म एवात्र धर्मशब्देन कथ्यते ॥
५०
धर्ममार्गमनुल्लङ्घय गृहस्थो यदि जीवति ।
देववत्पूजित: सोऽत्र देवलोकं ततो व्रजेत् ॥

 ध्कार् ६. पत्‍नी


५१
दयादिगुणसम्पन्ना भर्तुरायानुसारत्: ।
करोति जीवनं याऽत्र सैव भार्येति कथ्यते ॥
५२
गृहिणी यस्य गार्हस्थ्यगुणादिरहिता भवेत् ।
निष्फलं जीवनं तस्य सत्स्वेव विभवादिषु ॥
५३
पत्‍नी चेद् गुणसम्पन्ना समृद्धं तस्य जीवनम् ।
वैपरीत्ये समायाते शून्यमेव हि जीवनम् ॥
५४
पातिव्रत्येन संपन्ना गृहिणी यदि सङ्गता
तस्मादज्युत्तं भाग्यं गृहस्थास्य न लभ्यते ॥
५५
पतिमेव हरिं मत्वा प्रातर्या भजते ऽन्वहम् ।
त्वं वर्षेंति तंयाऽऽशप्तो देवोपि किल वर्षति ॥
५६
पातिव्रत्येन् भर्तारमात्मानं कीर्तिमेव च ।
या पालयति धर्मेण सैव नारीति कथ्यते ॥
५७
दण्डनाघैस्तु नारीणां रक्षणे किं प्रयोजनम् ।
पातिव्रत्यात् स्वत: स्त्रीणामात्मरक्षणमुत्तमम् ॥
५८
पातिव्रत्येनसहितां पतिशुश्रूषणे रताम् ।
गृहस्था गृहिणीं प्राप्य स्वर्गलोकं भजन्ति हे ॥
५९
पातिव्रत्ययशोहीनां भार्यां यो लभते नर: ।
सगार्वे सिंहवत् सो ऽयं शत्रुमध्ये न गच्छति ॥
६०
सञ्चरित्रवती भार्या माङ्गल्यं जीवितस्य सा ।
सत्पुत्राणामवाप्तितस्तु ततो भूषणवद्‍भवेत् ॥

 धिकार् 7. पुत्रभाग्यम्


६१
शास्त्रानुगतबुद्धीनां पुत्राणां लाभ एव तु ।
लव्धव्येषु महद्‍भाग्यम् अन्यन्नेह प्रशस्यते ॥
६२
निर्दुष्टगुणसम्पन्नं पुत्रं प्राप्नोति यो नर: ।
दु:खानि तं न बाधन्ते भाविजन्मसु सप्तसु ॥
६३
तनयेन पितु: स्वर्गलोकार्थे दानकारणात् ।
पुत्रं स्वार्जितवित्तेन समं वै मन्यते पिता ॥
६४
दत्तं यत् पुत्र हस्तेन सामान्यमपि भोजनम् ।
अमृतादधिकं तत्तु वर्तते मधुरं पितु: ॥
६५
पुत्रदेहपरिष्वङ्गो देहानन्दं विवर्धयेत् ।
जनयेच्छ्रवणानन्दं तेषां स्खलितभाषितम् ॥
६६
अस्पष्टमधुरं पुत्रभाषितं श्रृणोति य: ।
स एव कथयेत् रम्यं वीणावेण्वादि वादितम् ॥
६७
पिता विद्याप्रदानेन पण्डिताग्रेसरं सुतम् ।
यदि कुर्यात्‌सुतस्यैतत् महत् साह्यमुदीर्यते ॥
६८
विद्यावन्तं सुतं दृष्टवा मोदते न पिता परम् ।
अधिकं तेन तुष्यन्ति सर्वे भूतलवासिन: ॥
६९
'पुत्रस्ते गुणवान् विद्वान्' इति वाक्यं महात्मनाम् ।
श्रुत्वैवननी तस्य जननादपि तुष्यति ॥
७०
किंवा तप: कृतं पित्रा प्राप्तुमेतादृरां सुतम् ।
इति लोकै: स्तुत्: पुत्र: पितु: स्यादुपकारक:

 धिकार् . प्रीति:


७१
अर्गलं नास्ति हि प्रीते: प्रीतानामश्रुबिन्दव: ।
प्रकाशयन्ति सर्वेषां प्रीतिमन्त:स्थितामपि ॥
७२
नर: प्रेम्णा विरहित्: सर्वमात्मार्थमिच्छति ।
प्रेमवान् स्वशरीरं च परार्थमिति मन्यते ॥
७३
सर्वत्र प्रियभावेन कुर्वन् जीवनमात्मन: ।
जीवस्य देहसम्बन्धफलं पूर्णमिहाश्‍नुते ॥
७४
करुते स्वजनप्रेम सव सौहार्दजीवनम् ।
तदेव वर्धयेत् स्नेहमधिकं सर्वजन्तुषु ॥
७५
प्रेमार्द्रहृदयो यस्तु वर्तसे स्वीयबन्धुषु ।
सोऽत्र कीर्ति सुखं चैत्य स्वर्गलोके सुखं वसेत् ॥
७६
साधनं धर्ममात्रस्य प्रेमेति कथनं वृथा ।
अधर्मवर्जनेऽप्येतत् साधनं वस्तुतत्त्वत: ॥
७७
निरस्थिकान् कीटगणान् आतपो बाघते यथा ।
जीवं प्रेम्णा विरहितं तथा धर्मोपि बाघते ॥
७८
महीरुहस्य शुष्कस्य मरौ पल्लवजन्मवत् ।
गृहेषु हृदये प्रेम् विना जीवन् मुच्यते ॥
७९
देहान्तरङ्गभूतेन प्रेम्णा र्हितदेहिनाम् ।
बाहयाङ्गसामवायेन फलं नैव भवेद् ध्रुवम् ॥
८०
स देहो जीवसहित्: य: प्रेमवशमागत: ।
चर्मावृतास्थिकृट:स्यात् प्रेम्णा विरहितस्तु य: ॥

 धिकार . अतिथिसत्कार:


८१
सम्भारा: सम्भ्रियन्ते ये गृहस्थाश्रमवासिना ।
सर्वे ते विनियोक्तव्या: सदैवातिथिपूजने ॥
८२
प्रियातिथिमसम्मान्य गृहे यद्वस्तु भुज्यते ।
साक्षादमृतमेवास्तु न तच्छ्‌लाघ्यं कदाचन ॥
८३
स्वगृहप्राप्तमतिथिं भक्त्या सत्कुर्वत: सदा ।
दारिद्र्यम् न भवेत् किन्तु धनं चाप्यभिवर्धते ॥
८४
शुद्धातिथिं वेश्‍म गतं सेवमानस्य सादरम्  ।
नरस्य गेहे वसति प्रसन्ना पद्मसम्भवा  ॥
८५
भोजयित्वा ऽतिथिं पूर्वे शिष्टं स्वीकृत्य जीवत्: ।
बीजावापं विना क्षेत्रे जातन्ते सस्यसम्पद: ॥
८६
तोषयित्वा ऽतिथिं प्राप्तमन्यान् अतिथिसत्तमान् ।
यो हि प्रतीक्षते सोऽयं देवानामतिथिर्भवेत् ॥
८७
सदाराधनयज्ञस्य फलं वाचामगोचरम् ।
अतिथेर्योग्यता भेदात् फलमेदो ऽपि सम्मत्: ॥
८८
यस्यातिथीनां सत्कारयज्ञे बुद्धिर्न जायते ।
लब्धं वस्तु परिभ्रष्टं भवेदिति स चिन्तयेत् ॥
८९
दरिद्र एव मन्तव्यो वित्ते सत्यपि पुष्कले ।
भातिथ्यदानविमुखो यो भवेद् भुवने जड: ॥
९०
शिरीषपुष्पमाघ्राणात् म्लानं संजायते यथा ।
तथाऽतिथीनां वदनं स्याद् गृहस्थे पराङ्‌मुखे ॥

 धिकार १०. मधुरालाप:


९१
यत् कथ्यते धर्मविद्भि: सदयं प्रेमपूर्वकम् ।
वञ्चनारहितं तत्‍तु भवेन्मधुरभाषणम् ॥
९२
सहर्षे च दरिद्रेभ्य: कृतात् दानादनिन्दितात् ।
प्रसन्नवदनस्यैतत् श्रेष्ठं मधुरभाषणम् ॥
९३
दृष्ट्‌वा प्रसन्नमधुरं यद्वै हृदयपूर्वकम् ।
उच्यते सुहितं सत्यं स धर्म: परमो मत: ॥
९४
सर्वत्र मधुरं वाक्यं प्रयुक्तं सुखवर्धकम् ।
सर्वदा दु:खजनकं दारिद्य्रमपि नाशयेत् ॥
९५
विनयो मधुरालाप: द्वयमाभरणं नृणाम् ।
ताभ्यां द्वाभ्यां विहीनस्य किमन्यैर्भूषणै: फलम् ॥
९६
अन्येषामुपकारार्थे यो व्रूते मधुरं वच: ।
तस्य पपानि नश्यन्ति धर्म एवाभिवर्धते ॥
९७
परोपकारजनकं माधुर्यसाहितं वच: ।
वक्तारं सुखिनं कृत्वा पुण्यं चापि प्रयच्छति ॥
९८
परदु:खाय या न स्यु: प्रयुक्ता मधुरोक्तय: ।
ऐहिकामुष्मिकं सौख्यं प्रयोक्तुर्वितरन्ति ता: ॥
९९
मधुरोक्त्या महत् सौख्यं भवेदिति विदन्नपि ।
दु:खदं कठिनं वाक्यं कुतो वा वक्ति मानव: ॥
१००
कथनं कठिनोक्तीनां मधुरे वचसि स्थिते ।
मधुरं फलमुत्सृज्य कषायस्याशनं भवेत् ॥




No comments:

Post a Comment